सूत उवाच: अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः । देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव ॥
Opening selected granth...
Opening selected granth...
Skanda / Kand > Chapter > Shlok
श्रीमद्भागवत महापुराण — Glory of the Bhagavat and Skanda-wise spiritual granth with shlok, Hindi bhavarth, chapter video, and future audio support.
Language Selector
Placeholder only. Real language switching will be connected after multilingual content flow is ready.
गोकर्णोपाख्यान प्रारम्भ !
Chapter 3
भगवान् के अवतारों का वर्णन !
Chapter 2
भक्त का शोक दूर करने के लिए नारदजी का उपदेश !
Skanda 1
First Skanda of Bhagwat Mahapuran.
Click to open / close chapters
Selected chapter shlok, video/audio, meaning, voice, speed, and Auto Next controls are shown here.
Selected voice will be used for individual play and Play All.
Speed
Current speed: 0.9x. Change will apply from the next playback.
Auto Next
After one shlok ends, next shlok will start automatically.
Reader Controls
Adjust font size and reading mode. Your choices are saved on this device.
Font
Mode
सूत उवाच: अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः । देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव ॥
नारद उवाच: पाराशर्य महाभाग भवतः कच्चिदात्मना । परितुष्यति शारीर आत्मा मानस एव वा ॥
जिज्ञासितं सुसम्पन्नमपि ते महदद्भुतम् । कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥
जिज्ञासितमधीतं च यत्तद्ब्रह्म सनातनम् । अथापि शोचस्यात्मानमकृतार्थ इव प्रभो ॥
व्यास उवाच: अस्त्येव मे सर्वमिदं त्वयोक्तं तथापि नात्मा परितुष्यते मे । तन्मूलमव्यक्तमगाधबोधंपृच्छामहे त्वात्मभवात्मभूतम् ॥
स वै भवान् वेद समस्तगुह्य - मुपासितो यत्पुरुषः पुराणः । परावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गः ॥
त्वं पर्यटन्नर्क इव त्रिलोकी - मन्तश्चरो वायुरिवात्मसाक्षी । परावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनमलं विचक्ष्व ॥
श्रीनारद उवाच: भवतानुदितप्रायं यशो भगवतोऽमलम् । येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥
यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः । न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥
न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥ १
तद्वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि य- च्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥
नैष्कर्म्यमप्यच्युतभाववर्जितंन शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम् ॥
अथो महाभाग भवानमोघदृक् - शुचिश्रवाःसत्यरतो धृतव्रतः । उरुक्रमस्याखिलबन्धमुक्तयेसमाधिनानुस्मर तद्विचेष्टितम् ॥
ततोऽन्यथा किञ्चन यद्विवक्षतः पृथग्दृशस्तत्कृतरूपनामभिः । न कुत्रचित्क्वापि च दुःस्थिता मति - र्लभेत वाताहतनौरिवास्पदम् ॥
जुगुप्सितं धर्मकृतेऽनुशासतः स्वभावरक्तस्य महान् व्यतिक्रमः । यद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जनः ॥
विचक्षणोऽस्यार्हति वेदितुं विभो - रनन्तपारस्य निवृत्तितः सुखम् । प्रवर्तमानस्य गुणैरनात्मन - स्ततो भवान् दर्शय चेष्टितं विभोः ॥
त्यक्त्वा स्वधर्मं चरणाम्बुजं हरे - र्भजन्नपक्वोऽथ पतेत्ततो यदि । यत्र क्व वाभद्रमभूदमुष्य किं को वार्थ आप्तोऽभजतां स्वधर्मतः ॥
तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमतामुपर्यधः । तल्लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा ॥
न वै जनो जातु कथञ्चनाव्रजे - न्मुकुन्दसेव्यन्यवदङ्ग संसृतिम् । स्मरन् मुकुन्दाङ्घ्र्युपगूहनं पुन - र्विहातुमिच्छेन्न रसग्रहो यतः ॥
इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवाः । तद्धि स्वयं वेद भवांस्तथापि वै प्रादेशमात्रं भवतः प्रदर्शितम् ॥
त्वमात्मनाऽऽत्मानमवेह्यमोघदृक् - परस्यपुंसः परमात्मनः कलाम् । अजं प्रजातं जगतः शिवाय तन् - महानुभावाभ्युदयोऽधिगण्यताम् ॥
इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः । अविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम् ॥
अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम् । निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥
ते मय्यपेताखिलचापलेऽर्भके दान्तेऽधृतक्रीडनकेऽनुवर्तिनि । चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽल्पभाषिणि ॥
उच्छिष्टलेपाननुमोदितो द्विजैः सकृत्स्म भुञ्जे तदपास्तकिल्बिषः । एवं प्रवृत्तस्य विशुद्धचेतस - स्तद्धर्म एवात्मरुचिः प्रजायते ॥
तत्रान्वहं कृष्णकथाः प्रगायता - मनुग्रहेणाशृणवं मनोहराः । ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥
तस्मिंस्तदा लब्धरुचेर्महामुनेप्रियश्रवस्यास्खलिता मतिर्मम । ययाहमेतत्सदसत्स्वमाययापश्ये मयि ब्रह्मणि कल्पितं परे ॥
इत्थं शरत्प्रावृषिकावृतू हरे - र्विशृण्वतो मेऽनुसवं यशोऽमलम् । सङ्कीर्त्यमानं मुनिभिर्महात्मभि - र्भक्तिः प्रवृत्ताऽऽत्मरजस्तमोऽपहा ॥
तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः । श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥
ज्ञानं गुह्यतमं यत्तत्साक्षाद्भगवतोदितम् । अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥
येनैवाहं भगवतो वासुदेवस्य वेधसः । मायानुभावमविदं येन गच्छन्ति तत्पदम् ॥
एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् । यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥
आमयो यश्च भूतानां जायते येन सुव्रत । तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥
एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः । त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥
यदत्र क्रियते कर्म भगवत्परितोषणम् । ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम् ॥
कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् । गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥
नमो भगवते तुभ्यं वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥
इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम् । यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान् ॥
इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम् । अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः ॥
त्वमप्यदभ्रश्रुतविश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम् । आख्याहि /प्रख्याहि दुःखैर्मुहुरर्दितात्मनां सङ्क्लेशनिर्वाणमुशन्ति नान्यथा ॥