सूत उवाच: एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः । नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः ॥
Opening selected granth...
Opening selected granth...
Skanda / Kand > Chapter > Shlok
श्रीमद्भागवत महापुराण — Glory of the Bhagavat and Skanda-wise spiritual granth with shlok, Hindi bhavarth, chapter video, and future audio support.
Language Selector
Placeholder only. Real language switching will be connected after multilingual content flow is ready.
गोकर्णोपाख्यान प्रारम्भ !
Chapter 3
भगवान् के अवतारों का वर्णन !
Chapter 2
भक्त का शोक दूर करने के लिए नारदजी का उपदेश !
Skanda 1
First Skanda of Bhagwat Mahapuran.
Click to open / close chapters
Selected chapter shlok, video/audio, meaning, voice, speed, and Auto Next controls are shown here.
Selected voice will be used for individual play and Play All.
Speed
Current speed: 0.9x. Change will apply from the next playback.
Auto Next
After one shlok ends, next shlok will start automatically.
Reader Controls
Adjust font size and reading mode. Your choices are saved on this device.
Font
Mode
सूत उवाच: एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः । नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः ॥
शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभः । विभुं तमेवानुध्यायन्नाशक्नोत्प्रतिभाषितुम् ॥
कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः । परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः ॥
सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् । नृपमग्रजमित्याह बाष्पगद्गदया गिरा ॥
अर्जुन उवाच: वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा । येन मेऽपहृतं तेजो देवविस्मापनं महत् ॥
यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः । उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा ॥
यत्संश्रयाद्द्रुपदगेहमुपागतानां राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम् । तेजो हृतं खलु मयाभिहतश्च मत्स्यः सज्जीकृतेन धनुषाधिगता च कृष्णा ॥
यत्सन्निधावहमु खाण्डवमग्नयेऽदा - मिन्द्रं च सामरगणं तरसा विजित्य । लब्धा सभा मयकृताद्भुतशिल्पमाया दिग्भ्योऽहरन् नृपतयो बलिमध्वरे ते ॥
यत्तेजसा नृपशिरोऽङ्घ्रिमहन् मखार्थ - मार्योऽनुजस्तव गजायुतसत्त्ववीर्यः । तेनाहृताः प्रमथनाथमखाय भूपा यन्मोचितास्तदनयन् बलिमध्वरे ते ॥
पत्न्यास्तवाधिमखकॢप्तमहाभिषेक - श्लाघिष्ठचारुकबरं कितवैः सभायाम् । स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या यस्तत्स्त्रियोऽकृतहतेशविमुक्तकेशाः ॥
यो नो जुगोप वनमेत्य दुरन्तकृच्छ्रा - द्दुर्वाससोऽरिरचितादयुताग्रभुग् यः । शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं तृप्ताममंस्त सलिले विनिमग्नसङ्घः ॥
यत्तेजसाथ भगवान् युधि शूलपाणि - र्विस्मापितः सगिरिजोऽस्त्रमदान्निजं मे । अन्येऽपि चाहममुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम् ॥
तत्रैव मे विहरतो भुजदण्डयुग्मंगाण्डीवलक्षणमरातिवधायदेवाः । सेन्द्राः श्रिता यदनुभावितमाजमीढ तेनाहमद्य मुषितः पुरुषेण भूम्ना ॥
यद्बान्धवः कुरुबलाब्धिमनन्तपार - मेको रथेन ततरेऽहमतीर्यसत्त्वम् । प्रत्याहृतं बहुधनं च मया परेषां तेजास्पदं मणिमयं च हृतं शिरोभ्यः ॥
यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र - राजन्यवर्यरथमण्डलमण्डितासु । अग्रेचरो मम विभो रथयूथपाना - मायुर्मनांसि च दृशा सह ओज आर्च्छत् ॥
यद्दोःषु मा प्रणिहितं गुरुभीष्मकर्ण - नप्तृत्रिगर्तशलसैन्धवबाह्लिकाद्यैः । अस्त्राण्यमोघमहिमानि निरूपितानि नोपस्पृशुर्नृहरिदासमिवासुराणि ॥
सौत्ये वृतः कुमतिनाऽऽत्मद ईश्वरो मे यत्पादपद्ममभवाय भजन्ति भव्याः । मां श्रान्तवाहमरयो रथिनो भुविष्ठं न प्राहरन् यदनुभावनिरस्तचित्ताः ॥
नर्माण्युदाररुचिरस्मितशोभितानिहे पार्थ हेऽर्जुन सखे कुरुनन्दनेति । सञ्जल्पितानि नरदेव हृदिस्पृशानि स्मर्तुर्लुठन्ति हृदयं मम माधवस्य ॥
शय्यासनाटनविकत्थनभोजनादि - ष्वैक्याद्वयस्य ऋतवानिति विप्रलब्धः । सख्युः सखेव पितृवत्तनयस्य सर्वं सेहे महान् महितया कुमतेरघं मे ॥
सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्यः । अध्वन्युरुक्रमपरिग्रहमङ्ग रक्षन् गोपैरसद्भिरबलेव विनिर्जितोऽस्मि ॥
तद्वै धनुस्त इषवः स रथो हयास्ते सोऽहं रथी नृपतयो यत आनमन्ति । सर्वं क्षणेन तदभूदसदीशरिक्तं भस्मन् हुतं कुहकराद्धमिवोप्तमूष्याम् ॥
राजंस्त्वयानुपृष्टानां सुहृदां नः सुहृत्पुरे । विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथः ॥
वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् । अजानतामिवान्योन्यं चतुःपञ्चावशेषिताः ॥
प्रायेणैतद्भगवत ईश्वरस्य विचेष्टितम् । मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः ॥
जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः । दुर्बलान् बलिनो राजन् महान्तो बलिनो मिथः ॥
एवं बलिष्ठैर्यदुभिर्महद्भिरितरान् विभुः । यदून् यदुभिरन्योन्यं भूभारान् सञ्जहार ह ॥
देशकालार्थयुक्तानि हृत्तापोपशमानि च । हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे ॥
सूत उवाच: एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् । सौहार्देनातिगाढेन शान्ताऽऽसीद्विमला मतिः ॥
वासुदेवाङ्घ्र्यनुध्यानपरिबृंहितरंहसा । भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुनः ॥
गीतं भगवता ज्ञानं यत्तत्सङ्ग्राममूर्धनि । कालकर्मतमोरुद्धं पुनरध्यगमत्प्रभुः ॥
विशोको ब्रह्मसम्पत्त्या सञ्च्छिन्नद्वैतसंशयः । लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ॥
निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च । स्वःपथाय मतिं चक्रे निभृतात्मा युधिष्ठिरः ॥
पृथाप्यनुश्रुत्य धनञ्जयोदितं नाशं यदूनां भगवद्गतिं च ताम् । एकान्तभक्त्या भगवत्यधोक्षजे निवेशितात्मोपरराम संसृतेः ॥
ययाहरद्भुवो भारं तां तनुं विजहावजः । कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् ॥
यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः । भूभारः क्षपितो येन जहौ तच्च कलेवरम् ॥
यदा मुकुन्दो भगवानिमां महीं जहौ स्वतन्वा श्रवणीयसत्कथः । तदा हरेवाप्रतिबुद्धचेतसा - मधर्महेतुः कलिरन्ववर्तत ॥
युधिष्ठिरस्तत्परिसर्पणं बुधः पुरे च राष्ट्रे च गृहे तथाऽऽत्मनि । विभाव्य लोभानृतजिह्महिंसना - द्यधर्मचक्रं गमनाय पर्यधात् ॥
स्वराट् पौत्रं विनयिनमात्मनः सुसमं गुणैः । तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये ॥
मथुरायां तथा वज्रं शूरसेनपतिं ततः । प्राजापत्यां निरूप्येष्टिमग्नीनपिबदीश्वरः ॥
विसृज्य तत्र तत्सर्वं दुकूलवलयादिकम् । निर्ममो निरहङ्कारः सञ्च्छिन्नाशेषबन्धनः ॥
वाचं जुहाव मनसि तत्प्राण इतरे च तम् । मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् ॥
त्रित्वे हुत्वा च पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनिः । सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये ॥
चीरवासा निराहारो बद्धवाङ्मुक्तमूर्धजः । दर्शयन्नात्मनो रूपं जडोन्मत्तपिशाचवत् ॥
अनवेक्षमाणो निरगादशृण्वन् बधिरो यथा । उदीचीं प्रविवेशाशां गतपूर्वां महात्मभिः । हृदि ब्रह्म परं ध्यायन् नावर्तेत यतो गतः ॥
सर्वे तमनुनिर्जग्मुर्भ्रातरः कृतनिश्चयाः । कलिनाधर्ममित्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि ॥
ते साधुकृतसर्वार्था ज्ञात्वाऽऽत्यन्तिकमात्मनः । मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥
तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे । तस्मिन् नारायणपदे एकान्तमतयो गतिम् ॥
अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः । विधूतकल्मषा स्थानं विरजेनात्मनैव हि ॥
विदुरोऽपि परित्यज्य प्रभासे देहमात्मनः । कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ ॥
द्रौपदी च तदाज्ञाय पतीनामनपेक्षताम् । वासुदेवे भगवति ह्येकान्तमतिराप तम् ॥
यः श्रद्धयैतद्भगवत्प्रियाणां पाण्डोः सुतानामिति सम्प्रयाणम् । शृणोत्यलं स्वस्त्ययनं पवित्रं लब्ध्वा हरौ भक्तिमुपैति सिद्धिम् ॥