सूत उवाच: यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः । अनुग्रहाद्भगवतः कृष्णस्याद्भुतकर्मणः ॥
Opening selected granth...
Opening selected granth...
Skanda / Kand > Chapter > Shlok
श्रीमद्भागवत महापुराण — Glory of the Bhagavat and Skanda-wise spiritual granth with shlok, Hindi bhavarth, chapter video, and future audio support.
Language Selector
Placeholder only. Real language switching will be connected after multilingual content flow is ready.
गोकर्णोपाख्यान प्रारम्भ !
Chapter 3
भगवान् के अवतारों का वर्णन !
Chapter 2
भक्त का शोक दूर करने के लिए नारदजी का उपदेश !
Skanda 1
First Skanda of Bhagwat Mahapuran.
Click to open / close chapters
Selected chapter shlok, video/audio, meaning, voice, speed, and Auto Next controls are shown here.
Selected voice will be used for individual play and Play All.
Speed
Current speed: 0.9x. Change will apply from the next playback.
Auto Next
After one shlok ends, next shlok will start automatically.
Reader Controls
Adjust font size and reading mode. Your choices are saved on this device.
Font
Mode
सूत उवाच: यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः । अनुग्रहाद्भगवतः कृष्णस्याद्भुतकर्मणः ॥
ब्रह्मकोपोत्थिताद्यस्तु तक्षकात्प्राणविप्लवात् । न सम्मुमोहोरुभयाद्भगवत्यर्पिताशयः ॥
उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥
नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥
तावत्कलिर्न प्रभवेत्प्रविष्टोऽपीह सर्वतः । यावदीशो महानुर्व्यामाभिमन्यव एकराट् ॥
यस्मिन्नहनि यर्ह्येव भगवानुत्ससर्ज गाम् । तदैवेहानुवृत्तोऽसावधर्मप्रभवः कलिः ॥
नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् । कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥
किं नु बालेषु शूरेण कलिना धीरभीरुणा । अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते ॥
उपवर्णितमेतद्वः पुण्यं पारीक्षितं मया । वासुदेवकथोपेतमाख्यानं यदपृच्छत ॥
या याः कथा भगवतः कथनीयोरुकर्मणः । गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः ॥
ऋषय ऊचुः सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः । यस्त्वं शंससि कृष्णस्य मर्त्यानाममृतं हि नः ॥
कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनां भवान् । आपाययति गोविन्दपादपद्मासवं मधु ॥
तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥
को नाम तृप्येद्रसवित्कथायां महत्तमैकान्तपरायणस्य । नान्तं गुणानामगुणस्य जग्मु - र्योगेश्वरा ये भवपाद्ममुख्याः ॥
तन्नो भवान् वै भगवत्प्रधानो महत्तमैकान्तपरायणस्य । हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥
स वै महाभागवतः परीक्षि - द्येनापवर्गाख्यमदभ्रबुद्धिः । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥
तन्नः परं पुण्यमसंवृतार्थ - माख्यानमत्यद्भुतयोगनिष्ठम् । आख्याह्यनन्ताचरितोपपन्नंपारीक्षितं भागवताभिरामम् ॥
सूत उवाच: अहो वयं जन्मभृतोऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाताः । दौष्कुल्यमाधिं विधुनोति शीघ्रं महत्तमानामभिधानयोगः ॥
कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य । योऽनन्तशक्तिर्भगवाननन्तोमहद्गुणत्वाद्यमनन्तमाहुः ॥
एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य । हित्वेतरान् प्रार्थयतो विभूति - र्यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः ॥
अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः । सेशं पुनात्यन्यतमो मुकुन्दा - त्को नाम लोके भगवत्पदार्थः ॥
यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् । व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिंसोपशमः स्वधर्मः ॥
अहं हि पृष्टोऽर्यमणो भवद्भि - राचक्ष आत्मावगमोऽत्र यावान् । नभः पतन्त्यात्मसमं पतत्त्रिण - स्तथा समं विष्णुगतिं विपश्चितः ॥
एकदा धनुरुद्यम्य विचरन् मृगयां वने । मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ॥
जलाशयमचक्षाणः प्रविवेश तमाश्रमम् । ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥
प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम् । स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥
विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च । विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥
अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृतः । अवज्ञातमिवात्मानं मन्यमानश्चुकोप ह ॥
अभूतपूर्वः सहसा क्षुत्तृट्भ्यामर्दितात्मनः । ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च ॥
स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा । विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागमत् ॥
एष किं निभृताशेषकरणो मीलितेक्षणः । मृषासमाधिराहोस्वित्किं नु स्यात्क्षत्रबन्धुभिः ॥
तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः । राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥
अहो अधर्मः पालानां पीव्नां बलिभुजामिव । स्वामिन्यघं यद्दासानां द्वारपानां शुनामिव ॥
ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः । स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तुमर्हति ॥
कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् । तद्भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥
इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः । कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥
इति लङ्घितमर्यादं तक्षकः सप्तमेऽहनि । दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥
ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् । पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥
स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् । उन्मील्य शनकैर्नेत्रे दृष्ट्वा स्वांसे मृतोरगम् ॥
विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा ते प्रतिकृतमित्युक्तः स न्यवेदयत् ॥
निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् । अहो बतांहो महदद्य ते कृत - मल्पीयसि द्रोह उरुर्दमो धृतः ॥
न वै नृभिर्नरदेवं पराख्यं सम्मातुमर्हस्यविपक्वबुद्धे । यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभयाः प्रजाः ॥
अलक्ष्यमाणे नरदेवनाम्निरथाङ्गपाणावयमङ्गलोकः । तदा हि चौरप्रचुरो विनङ्क्ष्य - त्यरक्ष्यमाणोऽविवरूथवत्क्षणात् ॥
तदद्य नः पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थान् पुरुदस्यवो जनाः ॥
तदाऽऽर्यधर्मश्च विलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः । ततोऽर्थकामाभिनिवेशितात्मनांशुनां कपीनामिव वर्णसङ्करः ॥
धर्मपालो नरपतिः स तु सम्राट्बृहच्छ्रवाः । साक्षान्महाभागवतो राजर्षिर्हयमेधयाट् । क्षुत्तृट् श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥
अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना । पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥
तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि । नास्य तत्प्रतिकुर्वन्ति तद्भक्ताः प्रभवोऽपि हि ॥
इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः । स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥
प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः । न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः ॥