नारद उवाच: वृथा खेदयसे बाले अहो चिन्ताऽऽतुरा कथम् । श्रीकृष्णचरणाम्भोजं स्मर दुःखं गमिष्यति ॥
Opening selected granth...
Opening selected granth...
Skanda / Kand > Chapter > Shlok
श्रीमद्भागवत महापुराण — Glory of the Bhagavat and Skanda-wise spiritual granth with shlok, Hindi bhavarth, chapter video, and future audio support.
Language Selector
Placeholder only. Real language switching will be connected after multilingual content flow is ready.
Chapter 4
गोकर्णोपाख्यान प्रारम्भ !
Chapter 3
भगवान् के अवतारों का वर्णन !
Chapter 2
भक्त का शोक दूर करने के लिए नारदजी का उपदेश !
Skanda 1
First Skanda of Bhagwat Mahapuran.
Click to open / close chapters
Selected chapter shlok, video/audio, meaning, voice, speed, and Auto Next controls are shown here.
Selected voice will be used for individual play and Play All.
Speed
Current speed: 0.9x. Change will apply from the next playback.
Auto Next
After one shlok ends, next shlok will start automatically.
Chapter-level YouTube, audio, or video linked from the admin panel. YouTube is used as reference/discovery. Direct audio/video links can support better background listening later.
Shrimad Bhagavad Charcha by Sri Hit Premanand Govinda Saran Ji Maharaj द्वितीयोऽध्यायः (Fourth Skanda - Second Chapter.) भक्त का शोक दूर करने के लिए नारदजी का उपदेश ! (Narada's teachings to dispel the devotee's sorrow.)
Open original media →Reader Controls
Adjust font size and reading mode. Your choices are saved on this device.
Font
Mode
नारद उवाच: वृथा खेदयसे बाले अहो चिन्ताऽऽतुरा कथम् । श्रीकृष्णचरणाम्भोजं स्मर दुःखं गमिष्यति ॥
द्रौपदी च परित्राता येन कौरवकश्मलात् । पालिता गोपसुन्दर्यः स कृष्णः क्वापि नो गतः ॥
त्वं तु भक्तिः प्रिया तस्य सततं प्राणतोऽधिका । त्वयाऽऽहूतस्तु भगवान् याति नीचगृहेष्वपि ॥
सत्यादित्रियुगे बोधवैराग्यौ मुक्तिसाधकौ । कलौ तु केवला भक्तिर्ब्रह्मसायुज्यकारिणी ॥
इति निश्चित्य चिद्रूपः सद्रूपां त्वां ससर्ज ह । परमानन्दचिन्मूर्तिः सुन्दरीं कृष्णवल्लभाम् ॥
बद्ध्वाञ्जलिं त्वया पृष्टं किं करोमीति चैकदा । त्वां तदाऽऽज्ञापयत्कृष्णो मद्भक्तान् पोषयेति च ॥
अङ्गीकृतं त्वया तद्वै प्रसन्नोऽभूद्धरिस्तदा । मुक्तिं दासीं ददौ तुभ्यं ज्ञानवैराग्यकाविमौ ॥
पोषणं स्वेन रूपेण वैकुण्ठे त्वं करोषि च । भूमौ भक्तविपोषाय छायारूपं त्वया कृतम् ॥
मुक्तिं ज्ञानं विरक्तिं च सह कृत्वा गता भुवि । कृतादिद्वापरस्यान्तं महानन्देन संस्थिता ॥
कलौ मुक्तिः क्षयं प्राप्ता पाखण्डामयपीडिता । त्वदाज्ञया गता शीघ्रं वैकुण्ठं पुनरेव सा ॥
स्मृता त्वयापि चात्रैव मुक्तिरायाति याति च । पुत्रीकृत्य त्वयेमौ च पार्श्वे स्वस्यैव रक्षितौ ॥
उपेक्षातः कलौ मन्दौ वृद्धौ जातौ सुतौ तव । तथापि चिन्तां मुञ्ज त्वमुपायं चिन्तयाम्यहम् ॥
कलिना सदृशः कोऽपि युगो नास्ति वरानने । तस्मिंस्त्वां स्थापयिष्यामि गेहे गेहे जने जने ॥
अन्यधर्मांस्तिरस्कृत्य पुरस्कृत्य महोत्सवान् । तदा नाहं हरेर्दासो लोके त्वां न प्रवर्तये ॥
त्वदन्विताश्च ये जीवा भविष्यन्ति कलाविह । पापिनोऽपि गमिष्यन्ति निर्भयं कृष्णमन्दिरम् ॥
येषां चित्ते वसेद्भक्तिः सर्वदा प्रेमरूपिणी । न ते पश्यन्ति कीनाशं स्वप्नेऽप्यमलमूर्तयः ॥
न प्रेतो न पिशाचो वा राक्षसो वासुरोऽपि वा । भक्तियुक्तमनस्कानां स्पर्शने न प्रभुर्भवेत् ॥
न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा । हरिर्हि साध्यते भक्त्या प्रमाणं तत्र गोपिकाः ॥
नृणां जन्मसहस्रेण भक्तौ प्रीतिर्हि जायते । कलौ भक्तिः कलौ भक्तिर्भक्त्या कृष्णः पुरः स्थितः ॥
भक्तिद्रोहकरा ये च ते सीदन्ति जगत्त्रये । दुर्वासा दुःखमापन्नः पुरा भक्तविनिन्दकः ॥
अलं व्रतैरलं तीर्थैरलं योगैरलं मखैः । अलं ज्ञानकथालापैर्भक्तिरेकैव मुक्तिदा ॥
सूत उवाच: इति नारदनिर्णीतं स्वमाहात्म्यं निशम्य सा । सर्वाङ्गपुष्टिसंयुक्ता नारदं वाक्यमब्रवीत् ॥ भक्तिरुवाच:
अहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला । न कदाचिद्विमुञ्जामि चित्ते स्थास्यामि सर्वदा ॥
कृपालुना त्वया साधो मद्बाधा ध्वंसिता क्षणात् । पुत्रयोश्चेतना नास्ति ततो बोधय बोधय ॥
सूत उवाच: तस्या वचः समाकर्ण्य कारुण्यं नारदो गतः । तयोर्बोधनमारेभे कराग्रेण विमर्दयन् ॥
मुखं संयोज्य कर्णान्ते शब्दमुच्चैः समुच्चरन् । ज्ञान प्रबुद्ध्यातां शीघ्रं रे वैराग्य प्रबुद्ध्याताम् ॥
वेदवेदान्तघोषैश्च गीतापाठैर्मुहुर्मुहुः । बोध्यमानौ तदा तेन कथञ्चिच्चोत्थितौ बलात् ॥
नेत्रैरनवलोकन्तौ जृम्भन्तौ सालसावुभौ । बकवत्पलितौ प्रायः शुष्ककाष्ठसमाङ्गकौ ॥
क्षुत्क्षामौ तौ निरीक्ष्यैव पुनः स्वापपरायणौ । ऋषिश्चिन्तापरो जातः किं विधेयं मयेति च ॥
अहो निद्रा कथं याति वृद्धत्वं च महत्तरम् । चिन्तयन्निति गोविन्दं स्मारयामास भार्गव ॥
व्योमवाणी तदैवाभून्मा ऋषे खिद्यतामिति । उद्यमः सफलस्तेऽयं भविष्यति न संशयः ॥
एतदर्थं तु सत्कर्म सुरर्षे त्वं समाचर । तत्ते कर्माभिधास्यन्ति साधवः साधुभूषणाः ॥
सत्कर्मणि कृते तस्मिन् सनिद्रा वृद्धतानयोः । गमिष्यति क्षणाद्भक्तिः सर्वतः प्रसरिष्यति ॥
इत्याकाशवचः स्पष्टं तत्सर्वैरपि विश्रुतम् । नारदो विस्मयं लेभे नेदं ज्ञातमिति ब्रुवन् ॥
नारद उवाच: अनयाऽऽकाशवाण्यापिगोप्यत्वेन निरूपितम् । किं वा तत्साधनं कार्यं येन कार्यं भवेत्तयोः ॥
क्व भविष्यन्ति सन्तस्ते कथं दास्यन्ति साधनम् । मयात्र किं प्रकर्तव्यं यदुक्तं व्योमभाषया ॥
सूत उवाच: तत्र द्वावपि संस्थाप्य निर्गतो नारदो मुनिः । तीर्थं तीर्थं विनिष्क्रम्य पृच्छन्मार्गे मुनीश्वरान् ॥
वृत्तान्तः श्रूयते सर्वैः किञ्चिन्निश्चित्य नोच्यते । असाध्यं केचन प्रोचुर्दुर्ज्ञेयमिति चापरे । मूकीभूतास्तथान्ये तु कियन्तस्तु पलायिताः ॥
हाहाकारो महानासीत्त्रैलोक्ये विस्मयावहः । वेदवेदान्तघोषैश्च गीतापाठैर्विबोधितम् ॥
भक्तिज्ञानविरागाणां नोदतिष्ठत्त्रिकं यदा । उपायो नापरोऽस्तीति कर्णे कर्णेऽजपञ्जनाः ॥
योगिना नारदेनापि स्वयं न ज्ञायते तु यत् । तत्कथं शक्यते वक्तुमितरैरिह मानुषैः ॥
एवमृषिगणैः पृष्टैर्निर्णीयोक्तं दुरासदम् ॥
ततश्चिन्तातुरस्सोऽथ बदरीवनमागतः । तपश्चरामि चात्रेति तदर्थं कृतनिश्चयः ॥
तावद्ददर्श पुरतः सनकादीन्मुनीश्वरान् । कोटिसूर्यसमाभासानुवाच मुनिसत्तमः ॥
नारद उवाच: इदानीं भूरिभाग्येन भवद्भिः सङ्गमोऽभवत् । कुमारा ब्रूयतां शीघ्रं कृपां कृत्वा ममोपरि ॥
भवन्तो योगिनः सर्वे बुद्धिमन्तो बहुश्रुताः । पञ्चहायनसंयुक्ताः पूर्वेषामपि पूर्वजाः ॥
सदा वैकुण्ठनिलया हरिकीर्तनतत्पराः । लीलामृतरसोन्मत्ताः कथामात्रैकजीविनः ॥
हरिः शरणमेवं हि नित्यं येषां मुखे वचः । अतः कालसमादिष्टा जरा युष्मान्न बाधते ॥
येषां भ्रूभङ्गमात्रेण द्वारपालौ हरेः पुरा । भूमौ निपतितौ सद्यो यत्कृपातः पुरं गतौ ॥
अहो भाग्यस्य योगेन दर्शनं भवतामिह अनुग्रहस्तु कर्तव्यो मयि दीने दयापरैः ॥
अशरीरगिरोक्तं यत्तत्किं साधनमुच्यतां अनुष्ठेयं कथं तावत्प्रब्रुवन्तु सविस्तरम् ॥
भक्तिज्ञानविरागाणां सुखमुत्पद्यते कथम् । स्थापनं सर्ववर्णेषु प्रेमपूर्वं प्रयत्नतः ॥
कुमारा ऊचुः मा चिन्तां कुरु देवर्षे हर्षं चित्ते समावह । उपायः सुखसाध्योऽत्र वर्तते पूर्व एव हि ॥
अहो नारद धन्योऽसि विरक्तानां शिरोमणिः सदा श्रीकृष्णदासानामग्रणीर्योगभास्करः ॥
त्वयि चित्रं न मन्तव्यं भक्त्यर्थमनुवर्तिनि । घटते कृष्णदासस्य भक्तेः संस्थापना सदा ॥
ऋषिभिर्बहवो लोके पन्थानः प्रकटीकृताः । श्रमसाध्याश्च ते सर्वे प्रायः स्वर्गफलप्रदाः ॥
वैकुण्ठसाधकः पन्था स तु गोप्यो हि वर्तते । तस्योपदेष्टा पुरुषः प्रायो भाग्येन लभ्यते ॥
सत्कर्म तव निर्दिष्टं व्योमवाचा तु यत्पुरा । तदुच्यते शृणुष्वाद्य स्थिरचित्तः प्रसन्नधीः ॥
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च ते तु कर्मविसूचकाः ॥
सत्कर्मसूचको नूनं ज्ञानयज्ञः स्मृतो बुधैः । श्रीमद्भागवतालापः स तु गीतः शुकादिभिः ॥
भक्तिज्ञानविरागाणां तद्घोषेण बलं महत् । व्रजिष्यति द्वयोः कष्टं सुखं भक्तेर्भविष्यति ॥
प्रलयं हि गमिष्यन्ति श्रीमद्भागवतध्वनेः । कलेर्दोषा इमे सर्वे सिंहशब्दाद्वृका इव ॥
ज्ञानवैराग्यसंयुक्ता भक्तिः प्रेमरसावहा । प्रतिगेहं प्रतिजनं ततः क्रीडां करिष्यति ॥
नारद उवाच: वेदवेदान्तघोषैश्च गीतापाठैः प्रबोधितम् । भक्तिज्ञानविरागाणां नोदतिष्ठत्त्रिकं यदा ॥
श्रीमद्भागवतालापात्तत्कथं बोधमेष्यति । तत्कथासु तु वेदार्थः श्लोके श्लोके पदे पदे ॥
छिन्दन्तु संशयं ह्येनं भवन्तोऽमोघदर्शनाः । विलम्बो नात्र कर्तव्यः शरणागतवत्सलाः ॥
कुमारा ऊचुः वेदोपनिषदां साराज्जाता भागवती कथा । अत्युत्तमा ततो भाति पृथग्भूता फलाकृतिः ॥
आमूलाग्रं रसस्तिष्ठन्नास्ते न स्वाद्यते यथा । स भूयः सम्पृथग्भूतः फले विश्वमनोहरः ॥
यथा दुग्धे स्थितं सर्पिर्न स्वादायोपकल्पते । पृथग्भूतं हि तद्गव्यं देवानां रसवर्धनम् ॥
इक्षूणामादिमध्यान्तं शर्करा व्याप्य तिष्ठति । पृथग्भूता च सा मिष्टा तथा भागवती कथा ॥
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । भक्तिज्ञानविरागाणां स्थापनाय प्रकाशितम् ॥
वेदान्तवेदसुस्नाते गीताया अपि कर्तरि । परितापवती व्यासे मुह्यत्यज्ञानसागरे ॥
तदा त्वया पुरा प्रोक्तं चतुःश्लोकसमन्वितम् । तदीयश्रवणात्सद्यो निर्बाधो बादरायणः ॥
तत्र ते विस्मयः केन यतः प्रश्नकरो भवान् । श्रीमद्भागवतं श्राव्यं शोकदुःखविनाशनम् ॥
नारद उवाच: यद्दर्शनं च विनिहन्त्यशुभानि सद्यः श्रेयस्तनोति भवदुःखदवार्दितानाम् । निःशेषशेषमुखगीतकथैकपानाः प्रेमप्रकाशकृतये शरणं गातोऽस्मि ॥
भाग्योदयेन बहुजन्मसमार्जितेन सत्सङ्गमं च लभते पुरुषो यदा वै । अज्ञानहेतुकृतमोहमदान्धकार - नाशंविधाय हि तदोदयते विवेकः ॥