कुमारा ऊचुः अथ ते सम्प्रवक्ष्यामः सप्ताहश्रवणे विधिम् । सहायैर्वसुभिश्चैव प्रायः साध्यो विधिः स्मृतः ॥
Opening selected granth...
Opening selected granth...
Skanda / Kand > Chapter > Shlok
श्रीमद्भागवत महापुराण — Glory of the Bhagavat and Skanda-wise spiritual granth with shlok, Hindi bhavarth, chapter video, and future audio support.
Language Selector
Placeholder only. Real language switching will be connected after multilingual content flow is ready.
गोकर्णोपाख्यान प्रारम्भ !
Chapter 3
भगवान् के अवतारों का वर्णन !
Chapter 2
भक्त का शोक दूर करने के लिए नारदजी का उपदेश !
Skanda 1
First Skanda of Bhagwat Mahapuran.
Click to open / close chapters
Selected chapter shlok, video/audio, meaning, voice, speed, and Auto Next controls are shown here.
Selected voice will be used for individual play and Play All.
Speed
Current speed: 0.9x. Change will apply from the next playback.
Auto Next
After one shlok ends, next shlok will start automatically.
Reader Controls
Adjust font size and reading mode. Your choices are saved on this device.
Font
Mode
कुमारा ऊचुः अथ ते सम्प्रवक्ष्यामः सप्ताहश्रवणे विधिम् । सहायैर्वसुभिश्चैव प्रायः साध्यो विधिः स्मृतः ॥
दैवज्ञं तु समाहूय मुहूर्तं पृच्छ्य यत्नतः । विवाहे यादृशं वित्तं तादृशं परिकल्पयेत् ॥
नभस्य आश्विनोर्जौ च मार्गशीर्षः शुचिर्नभाः । एते मासाः कथारम्भे श्रोतॄणां मोक्षसूचकाः ॥
मासानां विप्र हेयानि तानि त्याज्यानि सर्वथा । सहायाश्चेतरे चात्र कर्तव्याः सोद्यमाश्च ये ॥
देशे देशे तथा सेयं वार्ता प्रेष्या प्रयत्नतः । भविष्यति कथा चात्र आगन्तव्यं कुटुम्बिभिः ॥
दूरे हरिकथाः केचिद्दूरे चाच्युतकीर्तनाः । स्त्रियः शूद्रादयो ये च तेषां बोधो यतो भवेत् ॥
देशे देशे विरक्ता ये वैष्णवाः कीर्तनोत्सुकाः । तेष्वेव पत्रं प्रेष्यं च तल्लेखनमितीरितम् ॥
सतां समाजो भविता सप्तरात्रं सुदुर्लभः । अपूर्वरसरूपैव कथा चात्र भविष्यति ॥
श्रीमद्भागवतपीयुषपानाय रसलम्पटाः । भवन्तश्च तथा शीघ्रमायात प्रेमतत्पराः ॥
नावकाशः कदाचिच्चेद्दिनमात्रं तथापि तु । सर्वथाऽऽगमनं कार्यं क्षणोऽत्रैव सुदुर्लभः ॥
एवमाकारणं तेषां कर्तव्यं विनयेन च । आगन्तुकानां सर्वेषां वासस्थानानि कल्पयेत् ॥
तीर्थे वापि वने वापि गृहे वा श्रवणं मतम् । विशाला वसुधा यत्र कर्तव्यं तत्कथास्थलम् ॥
शोधनं मार्जनं भूमेर्लेपनं धातुमण्डनम् । गृहोपस्करमुद्धृत्य गृहकोणे निवेशयेत् ॥
अर्वाक् पञ्चाहतो यत्नादास्तीर्णानि प्रमेलयेत् । कर्तव्यो मण्डपः प्रोच्चैः कदलीखण्डमण्डितः ॥
फलपुष्पदलैर्विष्वग्वितानेन विराजितः । चतुर्दिक्षु ध्वजारोपो बहुसम्पद्विराजितः ॥
ऊर्ध्वं सप्तैव लोकाश्च कल्पनीयाः सविस्तरम् । तेषु विप्रा विरक्ताश्च स्थापनीयाः प्रबोध्य च ॥
पूर्वं तेषामासनानि कर्तव्यानि यथोत्तरम् । वक्तुश्चापि तदा दिव्यमासनं परिकल्पयेत् ॥
उदङ्मुखो भवेद्वक्ता श्रोता वै प्राङ्मुखक्तस्तदा । प्राङ्मुखश्चेद्भवेद्वक्ता श्रोता चोदङ्मुखस्तदा ॥
अथवा पूर्वदिग्ज्ञेया पूज्यपूजकमध्यतः । श्रोतॄणामागमे प्रोक्ता देशकालादिकोविदैः ॥
विरक्तो वैष्णवो विप्रो वेदशास्त्रविशुद्धिकृत् । दृष्टान्तकुशलो धीरो वक्ता कार्योऽतिनिस्पृहः ॥
अनेकधर्मविभ्रान्ताः स्त्रैणाः पाखण्डवादिनः । शुकशास्त्रकथोच्चारे त्याज्यास्ते यदि पण्डिताः ॥
वक्तुः पार्श्वे सहायार्थमन्यः स्थाप्यस्तथाविधः । पण्डितः संशयच्छेत्ता लोकबोधनतत्परः ॥
वक्त्रा क्षौरं प्रकर्तव्यं दिनादर्वाग्व्रताप्तये । अरुणोदयेऽसौ निर्वर्त्य शौचं स्नानं समाचरेत् ॥
नित्यं सङ्क्षेपतः कृत्वा सन्ध्याद्यं स्वं प्रयत्नतः । कथाविघ्नविघाताय गणनाथं प्रपूजयेत् ॥
पितॄन् सन्तर्प्य शुद्ध्यर्थं प्रायश्चित्तं समाचरेत् । मण्डलं च प्रकर्तव्यं तत्र स्थाप्यो हरिस्तथा ॥
कृष्णमुद्दिश्य मन्त्रेण चरेत्पूजाविधिं क्रमात् । प्रदक्षिणनमस्कारान् पूजान्ते स्तुतिमाचरेत् ॥
संसारसागरे मग्नं दीनं मां करुणानिधे । कर्ममोह (ग्राह )गृहीताङ्गं मामुद्धर भवार्णवात् ॥
श्रीमद्भागवतस्यापि ततः पूजा प्रयत्नतः । कर्तव्या विधिना प्रीत्या धूपदीपसमन्विता ॥
ततस्तु श्रीफलं धृत्वा नमस्कारं समाचरेत् । स्तुतिः प्रसन्नचित्तेन कर्तव्या केवलं तदा ॥
श्रीमद्भागवताख्योऽयं प्रत्यक्षः कृष्ण एव हि । स्वीकृतोऽसि मया नाथ मुक्त्यर्थं भवसागरे ॥
मनोरथो मदीयोऽयं सफलः सर्वथा त्वया । निर्विघ्नेनैव कर्तव्यो दासोऽहं तव केशव ॥
एवं दीनवचः प्रोच्य वक्तारं चाथ पूजयेत् । सम्भूष्य वस्त्रभूषाभिः पूजान्ते तं च संस्तवेत् ॥
शुकरूप प्रबोधज्ञ सर्वशास्त्रविशारद । एतत्कथाप्रकाशेन मदज्ञानं विनाशय ॥
तदग्रे नियमः पश्चात्कर्तव्यः श्रेयसे मुदा । सप्तरात्रं यथाशक्त्या धारणीयः स एव हि ॥
वरणं पञ्चविप्राणां कथाभङ्गनिवृत्तये । कर्तव्यं तैर्हरेर्जाप्यं द्वादशाक्षरविद्यया ॥
ब्राह्मणान् वैष्णवांश्चान्यान् तथा कीर्तनकारिणः । नत्वा सम्पूज्य दत्ताज्ञाः स्वयमासनमाविशेत् ॥
लोकवित्तधनागारपुत्रचिन्तां व्युदस्य च । कथाचित्तः शुद्धमतिः स लभेत् फलमुत्तमम् ॥
आसूर्योदयमारभ्य सार्धत्रिप्रहरान्तकम् । वाचनीया कथा सम्यग्धीरकण्ठं सुधीमता ॥
कथाविरामः कर्तव्यो मध्याह्ने घटिकाद्वयम् । तत्कथामनु कार्यं वै कीर्तनं वैष्णवैस्तदा ॥
मलमूत्रजयार्थं हि लघ्वाहारः सुखावहः । हविष्यान्नेन कर्तव्यो ह्येकवारं कथार्थिना ॥
उपोष्य सप्तरात्रं वै शक्तिश्चेच्छृणुयात् तदा । घृतपानं पयःपानं कृत्वा वै शृणुयात् सुखम् ॥
फलाहारेण वा श्राव्यमेकभक्तेन वा पुनः । सुखसाध्यं भवेद्यत्तु कर्तव्यं श्रवणाय तत् ॥
भोजनं तु वरं मन्ये कथाश्रवणकारकम् । नोपवासो वरः प्रोक्तः कथाविघ्नकरो यदि ॥
सप्ताहव्रतिनां पुंसां नियमाञ्छृणु नारद विष्णुदीक्षाविहीनानां नाधिकारः कथाश्रवे ॥
ब्रह्मचर्यमधःसुप्तिः पत्रावल्यां च भोजनं कथासमाप्तौ भुक्तिं च कुर्यान्नित्यं कथाव्रती ॥
द्विदलं मधु तैलं च गरिष्ठान्नं तथैव च । भावदुष्टं पर्युषितं जह्यान्नित्यं कथाव्रती ॥
कामं क्रोधं मदं मानं मत्सरं लोभमेव च । दम्भं मोहं तथा द्वेषं दूरयेच्च कथाव्रती ॥
वेदवैष्णवविप्राणां गुरुगोव्रतिनां तथा । स्त्रीराजमहतां निन्दां वर्जयेद्यः कथाव्रती ॥
रजस्वलान्त्यजम्लेच्छपतितव्रात्यकैस्तथा । द्विजद्विड्वेदबाह्यैश्च न वदेद्यः कथाव्रती ॥
सत्यं शौचं दयां मौनमार्जवं विनयं तथा । उदारमानसं तद्वदेवं कुर्यात् कथाव्रती ॥
दरिद्रश्च क्षयी रोगी निर्भाग्यः पापकर्मवान् । अनपत्यो मोक्षकामः शृणुयाच्च कथामिमाम् ॥
अपुष्पा काकवन्ध्या च वन्ध्या या च मृतार्भका । स्रवद्गर्भा च या नारी तया श्राव्यः प्रयत्नतः ॥
एतेषु विधिना श्रावे तदक्षयतरं भवेत् । अत्युत्तमा कथा दिव्या कोटियज्ञफलप्रदा ॥
एवं कृत्वा व्रतविधिमुद्यापनमथाचरेत् । जन्माष्टमीव्रतमिव कर्तव्यं फलकाङ्क्षिभिः ॥
अकिञ्चनेषु भक्तेषु प्रायो नोद्यापनाग्रहः । श्रवणेनैव पूतास्ते निष्कामा वैष्णवा यतः ॥
एवं नगाहयज्ञेऽस्मिन् समाप्ते श्रोतृभिस्तदा । पुस्तकस्य च वक्तुश्च पूजा कार्यातिभक्तितः ॥
प्रसादतुलसीमालाः श्रोतृभ्यश्चाथ दीयताम् । मृदङ्गतालललितं कर्तव्यं कीर्तनं ततः ॥
जयशब्दं नमःशब्दं शङ्खशब्दं च कारयेत् । विप्रेभ्यो याचकेभ्यश्च वित्तमन्नं च दीयताम् ॥
विरक्तश्चेद्भवेच्छ्रोता गीता वाच्या परेऽहनि गृहस्थश्चेत्तदा होमः कर्तव्यः कर्मशान्तये ॥
प्रतिश्लोकं च जुहुयाद्विधिना दशमस्य च । पायसं मधु सर्पिश्च तिलान्नादिकसंयुतम् ॥
अथवा हवनं कुर्याद्गायत्र्या सुसमाहितः । तन्मयत्वात् पुराणस्य परमस्य च तत्त्वतः ॥
होमाशक्तौ बुधो हौम्यं दद्यात्तत्फलसिद्धये । नानाच्छिद्रनिरोधार्थं न्यूनताधिकतानयोः ॥
दोषयोः प्रशमार्थं च पठेन्नामसहस्रकम् । तेन स्यात्तत्फलं सर्वं नास्त्यस्मादधिकं यतः ॥
द्वादश ब्राह्मणान् पश्चाद्भोजयेन्मधुपायसैः । दद्यात्सुवर्णधेनुं च व्रतपूर्णत्वहेतवे ॥
शक्तौ फलत्रयमितं स्वर्णसिंहं विधाय च । तत्रास्य पुस्तकं स्थाप्यं लिखितं ललिताक्षरम् ॥
सम्पूज्यावाहनाद्यैस्तदुपचारैः सदक्षिणम् । वस्त्रभूषणगन्धाद्यैः पूजिताय यतात्मने ॥
आचार्याय सुधीर्दत्त्वा मुक्तः स्याद्भवबन्धनैः । एवं कृते विधाने च सर्वपापनिवारणे ॥
फलदं स्यात्पुराणं तु श्रीमद्भागवतं शुभम् । धर्मकामार्थमोक्षाणां साधनं स्यान्न संशयः ॥
कुमारा ऊचुः इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि । श्रीमद्भागवतेनैव भुक्तिमुक्ती करे स्थिते ॥
सूत उवाच: इत्युक्त्वा ते महात्मानः प्रोचुर्भागवतीं कथाम् । सर्वपापहरां पुण्यां भुक्तिमुक्तिप्रदायिनीम् ॥
शृण्वतां सर्वभूतानां सप्ताहं नियतात्मनाम् । यथाविधि ततो देवं तुष्टुवुः पुरुषोत्तमम् ॥
तदन्ते ज्ञानवैराग्यभक्तीनां पुष्टता परा । तारुण्यं परमं चाभूत् सर्वभूतमनोहरम् ॥
नारदश्च कृतार्थोऽभूत् सिद्धे स्वीये मनोरथे । पुलकीकृतसर्वाङ्गः परमानन्दसम्भृतः ॥
एवं कथां समाकर्ण्य नारदो भगवत्प्रियः । प्रेमगद्गदया वाचा तानुवाच कृताञ्जलिः ॥
नारद उवाच: धन्योऽस्म्यनुगृहीतोऽस्मि भवद्भिः करुणापरैः । अद्य मे भगवाँल्लब्धः सर्वपापहरो हरिः ॥
श्रवणं सर्वधर्मेभ्यो वरं मन्ये तपोधनाः । वैकुण्ठस्थो यतः कृष्णः श्रवणाद्यस्य लभ्यते ॥
सूत उवाच: एवं ब्रुवति वै तत्र नारदे वैष्णवोत्तमे । रिभ्रमन् समायातः शुको योगेश्वरस्तदा ॥
तत्राययौ षोडशवार्षिकस्तदा व्यासात्मजो ज्ञानमहाब्धिचन्द्रमाः । कथावसाने निजलाभपूर्णः प्रेम्णा पठन् भागवतं शनैः शनैः ॥
दृष्ट्वा सदस्याः परमोरुतेजसं सद्यः समुत्थाय ददुर्महासनम् । प्रीत्या सुरर्षिस्तमपूजयत् सुखं स्थितोऽवदत् संशृणुतामलां गिरम् ॥
श्रीशुक उवाचनिगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् । पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुका ॥
धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥
श्रीमद्भागवतं पुराणतिलकं यद्वैष्णवानां धनं यस्मिन् पारमहंस्यमेवममलं ज्ञानं परं गीयते । यत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविष्कृतं तच्छृण्वन् प्रपठन् विचारणपरो भक्त्या विमुच्येन्नरः ॥
स्वर्गे सत्ये च कैलासे वैकुण्ठे नास्त्ययं रसः । अतः पिबन्तु सद्भक्त्या मा मा मुञ्चत कर्हिचित् ॥
सूत उवाच: एवं ब्रुवाणे सति बादरायणौ मध्ये सभायां हरिराविरासीत् । प्रह्लादबल्युद्धवफाल्गुनादिभिःवृतः सुरर्षिस्तमपूजयच्च तान् ॥
दृष्ट्वा प्रसन्नं महदासने हरिं ते चक्रिरे कीर्तनमग्रतस्तदा । भवो भवान्या कमलासनस्तु तत्रागमन् कीर्तनदर्शनाय ॥
प्रह्लादस्तालधारी तरलगतितया चोद्धवः कांस्यधारी वीणाधारी सुरर्षिः स्वरकुशलतया रागकर्तार्जुनोऽभूत् । इन्द्रोऽवादीन्मृदङ्गं जयजयसुकराः कीर्तनं ते कुमारा यत्राग्रे भाववक्ता सरसरचनया व्यासपुत्रो बभूव ॥
ननर्त मध्ये त्रिकमेव तत्र भक्त्यादिकानां नटवस्तुतेजसाम् । अलौकिकं कीर्तनमेतदीक्ष्य हरिः प्रसन्नोऽपि वचोऽब्रवीत्तत् ॥
मत्तो वरं भागवता वृणुध्वं प्रीतः कथाकीर्तनतोऽस्मि साम्प्रतम् । श्रुत्वेति तद्वाक्यमतिप्रसन्नाः प्रेमार्द्रचित्ता हरिमूचिरे ते ॥
नगाहगाथासु च सर्वभक्तै - रेभिस्त्वया भाव्यमिति प्रयत्नात् । मनोरथोऽयं परिपूरणीय - स्तथेति चोक्त्वान्तरधीयताच्युतः ॥
ततोऽनमत्तच्चरणेषु नारद - स्तथा शुकादीनपि तापसांश्च । अथ प्रहृष्टाः परिनष्टमोहाः सर्वे ययुः पीतकथामृतास्ते ॥
भक्तिः सुताभ्यां सह रक्षिता सा शास्त्रे स्वकीयेऽपि तदा शुकेन । अतो हरिर्भागवतस्य सेवना - च्चित्तं समायाति हि वैष्णवानाम् ॥
दारिद्र्यदुःखज्वरदाहितानांमायापिशाचीपरिमर्दितानाम् । संसारसिन्धौ परिपातितानां क्षेमाय वै भागवतं प्रगर्जति ॥
शौनक उवाच: शुकेनोक्तं कदा राज्ञे गोकर्णेन कदा पुनः । सुरर्षये कदा ब्राह्मैश्छिन्धि मे संशयं त्विमम् ॥
सूत उवाच: आकृष्णनिर्गमात् त्रिंशद्वर्षाधिकगते कलौ । नवमीतो नभस्ये च कथारम्भं शुकोऽकरोत् ॥
परीक्षिच्छ्रवणान्ते च कलौ वर्षशतद्वये । शुद्धे शुचौ नवम्यां च धेनुजोऽकथयत्कथाम् ॥
तस्मादपि कलौ प्राप्ते त्रिंशद्वर्षगते सति । ऊचुरूर्जे सिते पक्षे नवम्यां ब्रह्मणः सुताः ॥
इत्येतत्ते समाख्यातं यत्पृष्टोऽहं त्वयानघ । कलौ भागवती वार्ता भवरोगविनाशिनी ॥
कृष्णप्रियं सकलकल्मषनाशनं च मुक्त्यैकहेतुमिह भक्तिविलासकारि । सन्तः कथानकमिदं पिबतादरेण लोके हितार्थपरिशीलनसेवया किम् ॥
स्वपुरुषमपि वीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर भगवत्कथासु मत्तान् प्रभुरहमन्यनृणां न वैष्णवानाम् ॥
असारे संसारे विषयविषसङ्गाकुलधियः क्षणार्धं क्षेमार्थं पिबत शुकगाथातुलसुधाम् । किमर्थं व्यर्थं भो व्रजत कुपथे कुत्सितकथे परीक्षित्साक्षी यच्छ्रवणगतमुक्त्युक्तिकथने ॥
रसप्रवाहसंस्थेन श्रीशुकेनेरिता कथा । कण्ठे सम्बध्यते येन स वैकुण्ठप्रभुर्भवेत् ॥
इति च परमगुह्यं सर्वसिद्धान्तसिद्धं सपदि निगदितं ते शास्त्रपुञ्जं विलोक्य । जगति शुककथातो निर्मलं नास्ति किञ्चित् पिब परसुखहेतोर्द्वादशस्कन्धसारम् ॥
एतां यो नियततया शृणोति भक्त्या यश्चैनां कथयति शुद्धवैष्णवाग्रे । तौ सम्यग्विधिकरणात् फलं लभेते याथार्थ्यान्न हि भुवने किमप्यसाध्यम् ॥